अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
ग्रीष्मकालः सुखदस्य वसन्तकालस्य पश्चात् आगच्छति| ग्रीष्मकाले सूर्यस्य आतपः प्रखरः वर्तते| मानवाः पशु-पक्षिणः वृक्षाः, पादपाः चापि प्रखर-तापेन व्याकुलाः भवन्ति| केचित् जनाः विहाराय पर्वतस्थलेषु गच्छन्ति, केचित् गृहे वातानुकूलितेषु कक्षेषु तिष्ठन्ति| नद्यः, सरोवराः, तडागाः च शुष्यन्ति| सर्वत्र जलस्य अभावः दृश्यते| परं यदि ग्रीष्म-कालस्य प्रचण्डः तापः न स्यात् तर्हि मेघाः कथं भविष्यन्ति| मेघान् विना कुतः वृष्टिः? ग्रीष्म-कालस्य प्रभावात् एव वर्षा-ऋतुः आगच्छति| ग्रीष्मकाले गुलमोहर-वृक्षेषु रक्तानि पुष्पाणि अतीव शोभन्ते| मल्लिका-मालती-पादपेषु सुगन्धमयानि श्वेतानि पुष्पाणि विकसन्ति|
अ. एकपदेन उत्तरत — ½×4=2
(i) ग्रीष्मकालः कस्य कालस्य पश्चात् आगच्छति?
(ii) जनाः किमर्थं पर्वतस्थलेषु गच्छन्ति?
(iii) ग्रीष्मकाले कस्य अभावः दृश्यते?
(iv) ग्रीष्मकाले केषु वृक्षेषु रक्तानि पुष्पाणि आगच्छन्ति?
ब. पूर्णवाक्येन लिखत — 1×2=2
(i) श्वेतानि पुष्पाणि कुत्र विकसन्ति?
(ii) ग्रीष्मकाले कस्य आतपः प्रखरः वर्तते?
स. अस्य अनुच्छेदस्य कृते उपर्युक्तं शीर्षकं संस्कृतेन लिखत| 1
द. यथानिर्देशम् उत्तरत- 1×5=5
(i) ‘आगच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुखदस्य (ख) ग्रीष्मकालः (ग) वसन्तकालस्य
(ii) ‘विहाराय’ इति पदे का विभक्तिः वर्तते?
(क) प्रथमा (ख) द्वितीया (ग) चतुर्थी
(iii) ‘गेहे’ इत्यर्थे किं पर्यायपदं अनुच्छेदे पठितम्?
(क) गृहे (ख) विना (ग) प्रचण्डः
(iv) ‘दृश्यते’ इति क्रियापदे किं वचनं विद्यते?
(क) एकवचनम् (ख) द्विवचनम् (ग) बहुवचनम्
(v) ‘भविष्यन्ति’ इति रूपं कस्य लकारस्य वर्तते?
(क) लट्लकारस्य (ख) लृट्लकारस्य (ग) लङ्लकारस्य
अ.
(i) वसन्तकालस्य
(ii) विहाराय
(iii) जलस्य
(iv) गुलमोहरवृक्षेषु
ब.
(i) श्वेतानि पुष्पाणि मल्लिका-मालती-पादपेषु विकसन्ति|
(ii) ग्रीष्मकाले सूर्यस्य आतपः प्रखरः वर्तते|
स.
ग्रीष्मऋतुः
द.
(i) ग्रीष्मकालः
(ii) चतुर्थी
(iii) गृहे
(iv) एकवचनम्
(v) लृट्लकारस्य
मित्रं प्रति नववर्षस्य शुभकामनार्थं लिखिते पत्रे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा पत्रञ्च पुनः उत्तरपुस्तिकायां लिखत| ½×10=5
ई- गोविन्दपुरी
नव देहली
दिनाङ्कः.......
प्रिय मित्र महेश,
............. नमस्ते।
अत्र सर्वं .....................। तत्रापि अस्तु।
अग्रिमे सप्ताहे ............. शुभारम्भः भविष्यति| एतस्मिन् .................. तुभ्यं शुभकामनाः वितनोमि| गृहे सर्वेभ्यः मम नववर्षस्य .......... ददातु| ............... मङ्गलमयं भवतु| आगमनकाले ............... आनय|
अन्येभ्यः सर्वेभ्यः ज्येष्ठेभ्यः सादरं प्रणामाः, ................ स्नेहराशिः|
............. मित्रम्
अभिनवः
मञ्जूषा-
नववर्षस्य, कनिष्ठेभ्यः , नववर्षम्, अभिन्नमित्र!, कुशलम्, सस्नेहम्, अवसरे, हार्दिकशुभकामनाः, मधुराणि, त्वदीयम् |
ई- गोविन्दपुरी
नव देहली
दिनाङ्कः20-05-2019
प्रिय अभिन्नमित्र महेश,
सस्नेहं नमस्ते।
अत्र सर्वं कुशलम्। तत्रापि अस्तु।
अग्रिमे सप्ताहे नववर्षस्य शुभारम्भः भविष्यति| एतस्मिन् अवसरे तुभ्यं शुभकामनाः वितनोमि| गृहे सर्वेभ्यः मम नववर्षस्य हार्दिकशुभकामनाः ददातु| नववर्षं मङ्गलमयं भवतु| आगमनकाले मधुराणि आनय|
अन्येभ्यः सर्वेभ्यः ज्येष्ठेभ्यः सादरं प्रणामाः, कनिष्ठेभ्यः स्नेहराशिः|
त्वदीयं मित्रम्
अभिनवः
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहातया पञ्च वाक्यानि संस्कृतेन लिखत |
1×5=5
गौ, घटाः, मल्लिका, चन्दनः, पादप्रहारैः, रक्तरञ्जितः, आश्चर्येण, ग्रामस्थाः, चीत्कारम्, दुग्धम्, आवश्यकता, |
1. गौः पादप्रहारैः चन्दनं रक्तरञ्जितं करोति
2. ग्रामस्थाः सर्वे चन्दनम् आश्चर्येण पश्यन्ति|
3. गोः पार्श्वे एव घटाः स्थापिताः सन्ति|
4. मल्लिका चीत्कारं श्रुत्वा आगच्छति|
5. गौः दुग्धमेव न ददाति|
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- 1×5=5
1. भोजपत्रोपरि लेखनम् आरब्धम्|
2. लेखनार्थं कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति|
3. विश्रामालयेषु कक्षं निश्चितं भवेत्|
4. सर्वाणि पत्राणि चलदूरभाषयन्त्रे एव सुरक्षितानि भवन्ति|
5. वयम् उपचारार्थं चिकित्सालयं गच्छामः|
1. भोजपत्रोपरि किम् आरब्धम्?
2. लेखनार्थं कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
3. केषु कक्षं निश्चितं भवेत्?
4. सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति?
5. वयं किमर्थं चिकित्सालयं गच्छामः?
अधोलिखितपदयोः सन्धिं कृत्वा लिखत- ½×8=4
(i) पदस्य+अस्य = ……………………
(ii) तालपत्र+उपरि = ……………………
(iii) च+अतिष्ठत् = ……………………
(iv) कर्गद+उद्योगे = ……………………
(v) क्रय+अर्थम् = ……………………
(vi) इति+अनयोः = ……………………
(vii) उपचार+अर्थम् = ……………………
(viii) विश्राम+आलयः = ……………………
(i) पदस्य+अस्य = पदस्यास्य
(ii) तालपत्र+उपरि = तालपत्रोपरि
(iii) च+अतिष्ठत् = चातिष्ठत्
(iv) कर्गद+उद्योगे = कर्गदोद्योगे
(v) क्रय+अर्थम् = क्रयार्थम्
(vi) इति+अनयोः = इत्यनयोः
(vii) उपचार+अर्थम् = उपचारार्थम्
(viii) विश्राम+आलयः = विश्रामालयः
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां विभक्तिं निर्दिशत — ½×8=4
(i) अहं लेखन्या लिखामि|
(ii) छात्राः पठनाय विद्यालयं गच्छन्ति|
(iii) वृक्षात् पत्राणि पतन्ति|
(iv) एषः छात्रस्य स्यूतः अस्ति|
(v) बालिकाः उद्याने क्रीडन्ति|
(vi) गवां पालनं ग्रामेषु भवति|
(vii) भो महेश! अत्र आगच्छ|
(viii) अहं प्रतिदिनं पाठं पठामि|
(i) तृतीया
(ii) चतुर्थी
(iii) पञ्चमी
(iv) षष्ठी
(v) प्रथमा
(vi) सप्तमी
(vii) सम्बोधनम्
(viii) द्वितीया
उदाहरणानुसारं प्रदत्तानां पदानां कारकं निर्दिशत| ½×8=4
पदानि कारकम्
यथा- दण्डेन करणकारकम्
(i) विद्यालयः
(ii) यानेन
(iii) छात्राय
(iv) नगरे
(v) यैः
(vi) पर्वतात्
(vii) शिक्षकस्य
(viii) बालकम्
पदानि कारकम्
यथा- दण्डेन करणकारकम्
(i) विद्यालयः कर्तृकारकम्
(ii) यानेन करणकारकम्
(iii) छात्राय सम्प्रदानकारकम्
(iv) नगरे अधिकरणकारकम्
(v) यैः करणकारकम्
(vi) पर्वतात् अपादानकारकम्
(vii) शिक्षकस्य सम्बन्धकारकम्
(viii) बालकम् कर्मकारकम्
उदाहरणानुसारं रिक्तस्थानानि पूरयत| 1×10=10
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः - अखादत् अखादताम् अखादन्
(क) प्रथमपुरुषः - अगच्छत् ............... ...............
(ख) मध्यमपुरुषः- ............... अपठतम् ...............
(ग) उत्तमपुरुषः - ............... ............... अलिखाम
(घ) मध्यमपुरुषः- अवदः ............... ...............
(ङ) प्रथमपुरुषः- ............... अवसताम् ...............
(च) उत्तमपुरुषः- ............... ............... अभवाम
(छ) मध्यमपुरुषः- अपश्यः ............... ...............
(ज) प्रथमपुरुषः- ............... अतिष्ठताम् ...............
(झ) उत्तमपुरुषः- ............... ............... अपचाम
(ञ) मध्यमपुरुषः- अभ्रमः ............... ...............
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः - अखादत् अखादताम् अखादन्
(क) प्रथमपुरुषः - अगच्छत् अगच्छताम् अगच्छन्
(ख) मध्यमपुरुषः- अपठः अपठतम् अपठत
(ग) उत्तमपुरुषः - अलिखम् अलिखाव अलिखाम
(घ) मध्यमपुरुषः- अवदः अवदतम् अवदत
(ङ) प्रथमपुरुषः- अवसत् अवसताम् अवसन्
(च) उत्तमपुरुषः- अभवम् अभवाव अभवाम
(छ) मध्यमपुरुषः- अपश्यः अपश्यतम् अपश्यत
(ज) प्रथमपुरुषः- अतिष्ठत् अतिष्ठताम् अतिष्ठन्
(झ) उत्तमपुरुषः- अपचम् अपचाव अपचाम
(ञ) मध्यमपुरुषः- अभ्रमः अभ्रमतम् अभ्रमत
विलोमपदानि योजयत| ½×6=3
क. ख.
(क) पुरतः विरक्तिः
(ख) स्वकीयम् आगमनम्
(ग) भीतिः पृष्ठतः
(घ) अनुरक्तिः परकीयम्
(ङ) गमनम् साहसः
(च) सुखम् दुःखम्
क. ख.
(क) पुरतः पृष्ठतः
(ख) स्वकीयम् परकीयम्
(ग) भीतिः साहसः
(घ) अनुरक्तिः विरक्तिः
(ङ) गमनम् आगमनम्
(च) सुखम् दुःखम्
अधोलिखितं गद्यांशं पठित्वा प्रदत्तानां प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
के आसन् ते अज्ञातनामानः? शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः| इमे एव तडागाः अत्र संसारसागराः इति| एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितॄणाम् एककम्, निर्मातॄणां च दशकम् आसीत्| एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म| परं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्| पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि| अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म|
अ. एकपदेन उत्तरत| ½×4=2
(क) इमे के अत्र संसारसागराः इति?
(ख) शतशः सहस्रशः तडागाः सहसैव कस्मात् न प्रकटीभूताः?
(ग) नूतनसमाजस्य मनसि का नैव उद्भूता?
(घ) इमे एव तडागाः अत्र के?
ब. पूर्णवाक्येन उत्तरत| 1×2=2
(क) एतेषाम् आयोजनस्य नेपथ्ये केषाम् एककम्, केषाञ्च दशकम् आसीत्?
(ख) पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि कस्मिन् परिवर्तितानि?
स. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत- 1×5=5
(i) “रचयन्ति” इति क्रियापदस्य कर्तृपदं किम्?
(क) एतावतः (ख) के (ग) तडागान्
(ii) “मानसम्” इति पदस्य कि पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) मनः (ख) जिज्ञासा (ग) दशकम्
(iii) “एतेषाम्” इति पदे का विभक्तिः?
(क) पञ्चमी (ख) सप्तमी (ग) षष्ठी
(iv) “अज्ञातनामानः’ इत्यत्र किं वचनम्?
(क) एकवचनम् (ख) बहुवचनम् (ग) द्विवचनम्
(v) ‘उद्भूता’ इत्यत्र कः प्रत्ययः?
(क) क्तप्रत्ययः (ख) क्तवतुप्रत्ययः (ग) क्त्वाप्रत्ययः
अ.
(i) तडागाः
(ii) शून्यात्
(iii) जिज्ञासा
(iv) संसारसागराः
ब.
(क) एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितॄणाम् एककम्, निर्मातॄणां च दशकम् आसीत्|
(ख) पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्ये परिवर्तितानि|
स.
(i) के
(ii) मनः
(iii) षष्ठी
(iv) बहुवचनम्
(v) क्तप्रत्ययः
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः|
सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः||
अ. एकपदेन उत्तरत- ½×4=2
(i) गुणाः केषु गुणाः भवन्ति?
(ii) के निर्गुणं प्राप्य दोषाः भवन्ति?
(iii) गुणाः गुणज्ञेषु कीदृशाः भवन्ति?
(iv) कीदृशाः नद्यः प्रभवन्ति?
ब. पूर्णवाक्येन उत्तरत- 1×2=2
(i) कम् आसाद्य नद्यः अपेयाः भवन्ति?
(ii) गुणाः निर्गुणं प्राप्य कीदृशाः भवन्ति?
स. निर्देशानुसारम् उत्तरत- 1×5=5
(i) “निर्गुणम्” इति पदस्य कः अर्थः?
(अ) गुणवान् (ब) गुणविहीनः (ग) गुणयुक्तः
(ii) “गुणज्ञः” इति पदस्य विलोमपदं किम्?
(अ) दोषज्ञः (ब) गुणवान् (ग) ज्ञानी
(iii) “प्रभवन्ति” इति कीदृशं पदं वर्तते?
(अ) अव्ययपदम् (ब) कर्तृपदम् (ग) क्रियापदम्
(iv) “ते” इत्यत्र किं वचनम्?
(अ) बहुवचनम् (ब) द्विवचनम् (ग) एकवचनम्
(v) ‘प्राप्य’ इत्यत्र कः प्रत्ययः वर्तते?
(अ) क्त्वाप्रत्ययः (ब) ल्यप्प्रत्ययः (ग) क्तवतुप्रत्ययः
अ.
(i) गुणज्ञेषु
(ii) गुणाः
(iii) दोषाः
(iv) सुस्वादुतोयाः
ब.
(i) समुद्रम् आसाद्य नद्यः अपेयाः भवन्ति|
(ii) गुणाः निर्गुणं प्राप्य दोषाः भवन्ति|
स.
(i) गुणविहीनः
(ii) दोषज्ञः
(iii) क्रियापदम्
(iv) बहुवचनम्
(v) ल्यप्प्रत्ययः
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत- 1×6=6
(i) नद्यः कीदृश्यः भवन्ति?
(ii) लुब्धस्य किं नश्यति?
(iii) गुणाः केषु गुणाः भवन्ति?
(iv) काः समुद्रम् आसाद्य अपेयाः भवन्ति?
(v) खरनखरः कुत्र वसति स्म?
(vi) ‘डिजिटल इण्डिया’ इत्यस्य चर्चा कुत्र भवति?
(i) नद्यः सुस्वादुतोयाः भवन्ति|
(ii) लुब्धस्य यशः नश्यति|
(iii) गुणाः गुणज्ञेषु गुणाः भवन्ति|
(iv) नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति|
(v) खरनखरः कस्मिंश्चित् वने वसति स्म|
(vi) ‘डिजिटल इण्डिया’ इत्यस्य चर्चा सम्पूर्णविश्वे भवति|
श्लोकांशेषु रिक्तस्थानानि पूरयत- 1×6=6
(i) समुद्रमासाद्य ..............|
(ii) ............... वचः मधुरसूक्तरसं सृजन्ति|
(iii) तद्भागधेयं ................. पशूनाम्|
(iv) विद्याफलं .................. कृपणस्य सौख्यम्|
(v) विहाय पौरुषं यो हि............... अवलम्बते|
(vi) चिन्तनीया हि विपदाम् ................ प्रतिक्रियाः|
(i) समुद्रमासाद्य भवन्त्यपेयाः|
(ii) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति|
(iii) तद्भागधेयं परमं पशूनाम्|
(iv) विद्याफलं व्यसनिनः कृपणस्य सौख्यम्|
(v) विहाय पौरुषं यो हि दैवमेव अवलम्बते|
(vi) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः|
Take your CBSE board preparation to another level with AI based and rich media animation on Extramarks - The Learning App.
Features of Learning App