अधोलिखितं गद्यांशं पठित्वा अधः निर्दिष्टप्रश्नानाम् उत्तराणि लिखत-
कदाचित् जनसङ्ख्या न्यूना आसीत्| तदा वनानां सङ्ख्या अधिका आसीत्| न केवलं वनानां सङ्ख्या अधिका आसीत् अपितु तानि वनानि सान्द्राणि आसन्| तेषु अनेके वनमृगाः निर्भयेन सुखेन च जीवन्ति स्म| तेष्वेस्कस्मिन् वने मृगैः सह राक्षसोऽपि वसति स्म| राक्षसः प्रतिदिनम् अनेकान् मृगान् हित्वा खादति स्म अतः सर्वे ग्रामस्थाः अतिदुःखिताः आसन्| लोकरक्षायै दुष्टानाम् अन्तम् अनिवार्यम्| कुशालः इति नामाख्येन युवकेन राक्षसस्य क्रूर-कृत्यानि श्रूतानि| श्रुत्वा च तत् वनं प्रविष्टः यत्र राक्षसः वसति स्म| राक्षसः तं दृष्ट्वा अपृच्छत्- त्वं कोऽसि? किमर्थम् आगतोऽसि? युवकः अवदत्- त्वां ग्रहीतुम् आगतोऽस्मि| युवकः तं राक्षसं दर्पणं प्रदर्श्य अकथयत् पश्य त्वत्सदृशमेव एनं गृहीतवान् अस्मि|
अ. एकपदेन उत्तरत —(केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम्- अवबोधनात्मकप्रश्नः) 1×2=2
(i) कदाचित् का न्यूना आसीत्?
(ii) सर्वे ग्रामस्थाः कथम् आसन्?
(iii) युवकः तं राक्षसं किं प्रदर्श्य अकथयत्?
ब. पूर्णवाक्येन लिखत —(केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम्-अवबोधनात्मकप्रश्नः) 2×2=4
(i) वनमृगाः कथं जीवन्ति स्म?
(ii) किमर्थम् दुष्टानाम् अन्तम् अनिवार्यम्?
(iii) युवकः तं राक्षसं दर्पणं प्रदर्श्य किम् अकथयत्?
स. अस्य अनुच्छेदस्य कृते उपर्युक्तं शीर्षकं संस्कृतेन लिखत| 1
(द्वित्रिशब्दात्मक-वाक्यम् — चिन्तनात्मकप्रश्नः)
द. यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (एकपदेन ज्ञानात्मकप्रश्नः) 1×3=3
(i) ‘आसीत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) कदाचित् (ख) जनसङ्ख्या (ग) न्यूना
(ii) ‘मृगैः’ इति पदे का विभक्तिः वर्तते?
(क) प्रथमा (ख) द्वितीया (ग) तृतीया
(iii) ‘काननम् इत्यर्थे किं पर्यायपदं अनुच्छेदे पठितम्?
(क) वनम् (ख) अनिवार्यम् (ग) सान्द्राणि
(iv) ‘अवदत्’ इति क्रियापदे किं वचनं विद्यते?
(क) एकवचनम् (ख) द्विवचनम् (ग) बहुवचनम्
अ.
(i) जनसङ्ख्या
(ii) अतिदुःखिताः
(iii) दर्पणम्
ब.
(i) वनमृगाः निर्भयेन सुखेन च जीवन्ति स्म|
(ii) लोकरक्षायै दुष्टानाम् अन्तम् अनिवार्यम्|
(iii) युवकः तं राक्षसं दर्पणं प्रदर्श्य अकथयत् यत् पश्य त्वत्सदृशमेव एनं गृहीतवान् अस्मि|
स.
युक्तिः शक्तेः गरीयसी
द.
(i) जनसङ्ख्या
(ii) तृतीया
(iii) वनम्
(iv) एकवचनम्
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत| 1×5=5
(क) प्रातः - ............................
(ख) सायम् - ............................
(ग) आगच्छति - ............................
(घ) चिन्तयति - ............................
(ङ) अकथयत् - ............................
(क) प्रातः - अहं प्रातः योगासनं करोमि|
(ख) सायम् - पिता सायं कार्यालयात् गृहम् आगच्छति|
(ग) आगच्छति - शिक्षकः प्रतिदिनं विद्यालयम् आगच्छति|
(घ) चिन्तयति - रमेशः पाठं पठित्वा चिन्तयति|
(ङ) अकथयत् -- अम्बा मां विद्यालयात् समयेन आगन्तुम् अकथयत्|
सूचना- छात्राः स्वीयबुद्ध्या उपर्युक्तानि पदानि उपयुज्य वाक्यानि रचयन्तु|
उदाहरणानुसारं पदरचनां कुरुत| ½×10=5
यथा- वसति स्म = अवसत्
(क) तपति स्म = ....................
(ख) गच्छति स्म = ....................
(ग) पतति स्म = ....................
(घ) पश्यति स्म = ....................
(ङ) चिन्तयति स्म = ....................
(च) वदति स्म = ....................
(छ) लिखति स्म = ....................
(ज) नयति स्म = ....................
(झ) पठति स्म = ....................
(ञ) धावति स्म = ....................
यथा- वसति स्म = अवसत्
(क) तपति स्म = अतपत्
(ख) गच्छति स्म = अगच्छत्
(ग) पतति स्म = अपतत्
(घ) पश्यति स्म = अपश्यत्
(ङ) चिन्तयति स्म = अचिन्तयत्
(च) वदति स्म = अवदत्
(छ) लिखति स्म = अलिखत्
(ज) नयति स्म = अनयत्
(झ) पठति स्म = अपठत्
(ञ) धावति स्म = अधावत्
रेखाङ्कितपदानुसारं वाक्यानि पठित्वा मञ्जूषायाः साहाय्येन प्रश्ननिर्माणं कुरुत| 1×5=5
केन, का, कं, कः, केषां |
(क) नरः कलहं कृत्वा दुःखी भवति|
(ख) व्यवहारे सर्वदा ऋजुता विधेया|
(ग) मृत्युः कदापि न प्रतीक्षते|
(घ) कर्मणा पितरं सेवेत|
(ङ) आलस्यं मनुष्याणां महान् शत्रुः वर्तते|
(क) नरः कं कृत्वा दुःखी भवति?
(ख) व्यवहारे सर्वदा का विधेया?
(ग) कः कदापि न प्रतीक्षते?
(घ) केन पितरं सेवेत?
(ङ) आलस्यं केषां महान् शत्रुः वर्तते?
परस्य, दुःखम्, प्रस्तरे, आत्मानम्, बाधितः, मौनम्, परिवारः, सम्पन्नम्, त्यक्त्वा, सम्पूर्णे, |
मञ्जूषातः समानार्थकपदानि चित्वा लिखत| ½×10=5
परस्य, दुःखम्, प्रस्तरे, आत्मानम्, बाधितः, मौनम्, परिवारः, सम्पन्नम्, त्यक्त्वा, सम्पूर्णे, |
(क) स्वकीयम् - .........................
(ख) अवरुद्धः - .........................
(ग) कुटुम्बकम् - .........................
(घ) अन्यस्य - .........................
(ङ) अपहाय - .........................
(च) समृद्धम् - .........................
(छ) कष्टम् - .........................
(ज) निखिले - .........................
(झ) शिलायाम् - .........................
(ञ) तूष्णीम् - .........................
(क) स्वकीयम् - आत्मानम्
(ख) अवरुद्धः - बाधितः
(ग) कुटुम्बकम् - परिवारः
(घ) अन्यस्य - परस्य
(ङ) अपहाय - त्यक्त्वा
(च) समृद्धम् - सम्पन्नम्
(छ) कष्टम् - दुःखम्
(ज) निखिले - सम्पूर्णे
(झ) शिलायाम् - प्रस्तरे
(ञ) तूष्णीम् - मौनम्
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः - अगच्छत् अगच्छताम् अगच्छन्
(क) प्रथमपुरुषः - अपठत् ............... ...............
(ख) मध्यमपुरुषः - ............... अचरतम् ...............
(ग) उत्तमपुरुषः - ............... ............... अलिखाम
(घ) मध्यमपुरुषः - अकथयः ............... ...............
(ङ) प्रथमपुरुषः - ............... अवसताम् ...............
(च) उत्तमपुरुषः - ............... ............... अरक्षाम
(छ) मध्यमपुरुषः - अपश्यः ............... ...............
(ज) प्रथमपुरुषः - ............... अतिष्ठताम् ...............
(झ) उत्तमपुरुषः - ............... ............... अपचाम
(ञ) मध्यमपुरुषः - अपिबः ............... ...............
(क) प्रथमपुरुषः - अपठत् अपठताम् अपठन्
(ख) मध्यमपुरुषः - अचरः अचरतम् अचरत
(ग) उत्तमपुरुषः - अलिखम् अलिखाव अलिखाम
(घ) मध्यमपुरुषः - अकथयः अकथयतम् अकथयत
(ङ) प्रथमपुरुषः - अवसत् अवसताम् अवसन्
(च) उत्तमपुरुषः - अरक्षम् अरक्षाव अरक्षाम
(छ) मध्यमपुरुषः - अपश्यः अपश्यतम् अपश्यत
(ज) प्रथमपुरुषः - अतिष्ठत् अतिष्ठताम् अतिष्ठन्
(झ) उत्तमपुरुषः - अपचम् अपचाव अपचाम
(ञ) मध्यमपुरुषः - अपिबः अपिबतम् अपिबत
1×5=5
पदानि | विभक्तिः | वचनम् | ||
यथा-संस्कृतेः | - | षष्ठी | - | एकवचनम् |
1. गतिः | - | .............. | - | .............. |
2. नीतिम् | - | .............. | - | .............. |
3. सूक्तयः | - | .............. | - | .............. |
4. शान्त्या | - | .............. | - | .............. |
5. मतिषु | - | .............. | - | .............. |
पदानि | विभक्तिः | वचनम् | ||
1. गतिः | - | प्रथमा | - | एकवचनम् |
2. नीतिम् | - | द्वितीया | - | एकवचनम् |
3. सूक्तयः | - | प्रथमा | - | बहुवचनम् |
4. शान्त्या | - | तृतीया | - | एकवचनम् |
5. मतिषु | - | सप्तमी | - | बहुवचनम् |
½×10=5
(क) पत्राणि, पुष्पाणि, मित्राणि
(ख) अङ्कनी, भगिनी, लेखनी,
(ग) चषकः, हस्तः, पादः,
(घ) बालकः, छात्रः, कपोलः
(ङ) स्यूतः, गायकः, नायकः,
(च) धनम्, वनम्, रूप्यकम्,
(छ) जलम्, कमलम्, पङ्कजम्
(ज) भवनम्, गृहम्, फलम्
(झ) युवती, पुस्तिका, सञ्चिका,
(ञ) शिक्षिका, मापिका, अध्यापिका
(क) मित्राणि
(ख) भगिनी
(ग) चषकः
(घ) कपोलः
(ङ) स्यूतः
(च) वनम्
(छ) जलम्
(ज) फलम्
(झ) युवती
(ञ) मापिका
विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति| भाषेयं अनेकाषां भाषाणां जननी मता| प्राचीनयोः ज्ञानविज्ञानयोः निधिः अस्यां सुरक्षितः| संस्कृतस्य महत्त्वविषये केनापि कथितम्- ‘भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा’| इयं भाषा अतीव- वैज्ञानिकी| केचन कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा| अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति| विश्वकवीनां काव्यसौन्दर्यम् अनुपम्| कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति|
(क) एकपदेन उत्तरत- ½×4=2
(1) विश्वस्य उपलब्धासु भाषासु का प्राचीनतमा भाषास्ति?
(क) आङ्लभाषा (ख) संस्कृतभाषा
(ग) हिन्दीभाषा (घ) अन्या काचित्
(2) कयोः निधिः अस्यां सुरक्षितः?
(क) भाषयोः (ख) कव्योः
(ग) ज्ञानविज्ञानयोः (घ) संस्कृत-संस्कृत्योः
(3) केन रचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति?
(क) कौटिल्येन (ख) कविना
(ग) कालिदासेन (घ) भासेन
(4) इयं संस्कृतभाषा कीदृशी वर्तते?
(क) अतीवदैन्या (ख) अतीव-वैज्ञानिकी
(ग) अतीव-कठिना (घ) अतीव-लोकप्रिया
(ख) पूर्णवाक्येन उत्तरत- 1×2=2
(क)
(1) संस्कृतभाषा
(2) ज्ञानविज्ञानयोः
(3) कौटिल्येन
(4) अतीव-वैज्ञानिकी
(ख)
(1) भाषेयं अनेकाषां भाषाणां जननी मता|
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत|
सत्येन धार्यते पृथ्वी सत्येन तपते रविः|
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्||
(क) एकपदेन उत्तरत- ½×4=2
(1) सत्ये किं प्रतिष्ठितम्?
(क) पृथ्वी (ख) रविः
(ग) सर्वम् (घ) वायुः
(2) सत्येन कः तपते?
(क) रविः (ख) वायुः
(ग) पृथ्वी (घ) सर्वं
(3) केन रविः तपते?
(क) सत्येन (ख) वायुना
(ग) असत्येन (घ) पुण्येन
(4) केन सर्वं प्रतिष्ठितम्?
(क) पृथिव्या (ख) वायुना
(ग) रविना (घ) सत्येन
(ख) पूर्णवाक्येन उत्तरत- 1×2=2
(1) वायुः केन वाति?
(2) सत्येन का धार्यते?
(क)
(1) सर्वम्
(2) रविः
(3) सत्येन
(4) सत्येन
(ख)
(1) वायुः सत्येन वाति|
(2) सत्येन पृथ्वी धार्यते |
यथोचितं श्लोकांशान् योजयत| 1×10=10
क. ख.
(क) पृथिव्यां त्रीणि रत्नानि, (क) औदार्यं सत्यता तथा|
(ख) सद्भिरेव सहासीत, (ख) गणना लघुचेतसाम्|
(ग) सत्यं ब्रूयात् प्रियं ब्रूयात्, (ग) ऋणं कृत्वा घृतं पिबेत्|
(घ) सर्वदा व्यवहारे स्यात्, (घ) जलमन्नं सुभाषितम्|
(ङ) अयं निजः परो वेति, (ङ) ऋणं प्रत्यर्पयेत् जनः|
(च) यावज्जीवेत् सुखं जीवेत्, (च) न ब्रूयात् सत्यमप्रियम्|
(छ) घृतं पीत्वा श्रमं कृत्वा, (छ) सद्भिः कुर्वीत सङ्गतिम्|
(ज) व्यये कृते वर्धत एव नित्यं (ज) त्यक्तलज्जः सुखी भवेत्|
(झ) आहारे व्यवहारे च, (झ) बहुरत्ना वसुन्धरा|
(ञ) विस्मयो न हि कर्त्तव्यो (ञ) विद्याधनं सर्वधनप्रधानम्|
क. ख.
(क) पृथिव्यां त्रीणि रत्नानि, (क) जलमन्नं सुभाषितम्|
(ख) सद्भिरेव सहासीत, (ख) सद्भिः कुर्वीत सङ्गतिम्|
(ग) सत्यं ब्रूयात् प्रियं ब्रूयात्, (ग) न ब्रूयात् सत्यमप्रियम्|
(घ) सर्वदा व्यवहारे स्यात्, (घ) औदार्यं सत्यता तथा|
(ङ) अयं निजः परो वेति, (ङ) गणनालघुचेतसाम्|
(च) यावज्जीवेत् सुखं जीवेत्, (च) ऋणं कृत्वा घृतं पिबेत्|
(छ) घृतं पीत्वा श्रमं कृत्वा, (छ) ऋणं प्रत्यर्पयेत् जनः|
(ज) व्यये कृते वर्धत एव नित्यं (ज) विद्याधनं सर्वधनप्रधानम्|
(झ) आहारे व्यहारे च, (झ) त्यक्तलज्जः सुखी भवेत्|
(ञ) विस्मयो न हि कर्त्तव्यो (ञ) बहुरत्ना वसुन्धरा|
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत| 1×8=8
(क) पृथिव्यां त्रीणि कानि रत्नानि वर्तन्ते?
(ख) आलस्यं केषां शरीरस्थः महान् रिपुः?
(ग) नरः केन सह कलहं कृत्वा सुखी न भवेत्?
(घ) कः न प्रतीक्षते?
(ङ) पितरं केन सेवेत?
(च) अस्माकं राष्ट्रस्य ध्वजे कति वर्णाः सन्ति?
(छ) रमाबाई काभ्याम् उपाधिभ्यां विभूषिता?
(ज) का ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्?
(क) पृथिव्यां जलम्, अन्नम्, सुभाषितम्, इत्येतानि त्रीणि रत्नानि वर्तन्ते|
(ख) आलस्यं मनुष्याणां शरीरस्थः महान् रिपुः|
(ग) नरः मित्रेण सह कलहं कृत्वा सुखी न भवेत्|
(घ) मृत्युः न प्रतीक्षते|
(ङ) पितरं कर्मणा सेवेत|
(च) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति|
(छ) रमाबाई ‘पण्डिता’ तथा ‘सरस्वती’ इति उपाधिभ्यां विभूषिता|
(ज) रमाबाई ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्?
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत| ½×8=4
(क) वसुन्धरा कीदृशी भवति?
(ख) कैः मैत्रीं कुर्वीत?
(ग) विद्या गुरूणां का?
(घ) का व्यये कृते नित्यं वर्धते?
(ङ) सर्वधनेषु कीदृशं धनं प्रधानम्?
(च) का राजसु पूज्यते?
(छ) विद्याविहीनः कः भवति?
(ज) का पुरुषं समलङ्करोति?
(क) बहुरत्ना
(ख) सद्भिः
(ग) गुरुः
(घ) विद्या
(ङ) विद्याधनम्
(च) विद्या
(छ) पशुः
(ज) वाणी
Take your CBSE board preparation to another level with AI based and rich media animation on Extramarks - The Learning App.
Features of Learning App