अधोलिखितं गद्यांशं पठित्वा अधः निर्दिष्टप्रश्नानाम् उत्तराणि लिखत-
एकदा एकस्मात् ग्रामात् दश बालकाः मिलित्वा नदीस्नानार्थम् अगच्छन्| सर्वेऽपि चिरं स्नातवन्तः| स्नात्वा च ते बालकाः नदीं तीर्त्वा पारं गताः| तदा तेषु कश्चित् बालकः अगणयत्- प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, षष्ठः, सप्तमः, अष्टमः, नवमः, अपरः एकः क्व गतः? सर्वेऽपि आश्चर्येण परस्परम् अवलोकयन्तः अचिन्तयन् यत् दशमः नद्यां निमग्नः इति| अतः दुःखिताः भूत्वा सर्वेऽपि मौनेन तिष्ठन्ति| क्षणाभ्यन्तरे एकः पथिकः तत्र गतः| सर्वान् बालकान् च दुःखितान् दृष्ट्वा अपृच्छत्- भोः बालकाः! युष्माकं दुःखस्य कारणं किम्? एवं पथिकेन पृष्टे सति यः बालकः गणनाम् अकरोत् सः अवदत् बालकः वयं दश जनाः स्नातुम् आगताः किन्तु अधुना वयं नव बालकाः एव स्मः| अस्मासु एकः बालकः नद्यां मग्नः इति| पथिकः बालकान् पुनः गणयितुम् अकथयत् बालकश्च गणयित्वा नवैव इति अकथयत् तदा पथिकः अकथयत् दशमः त्वम् असि| ततः सर्वे बालकाः हर्षेण ग्रामं गताः|
अ. एकपदेन उत्तरत —(केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम्- अवबोधनात्मकप्रश्नः) 1×2=2
(i) सर्वे बालकाः मिलित्वा किमर्थम् अगच्छन्?
(ii) दुःखिताः भूत्वा सर्वेऽपि कथं तिष्ठन्ति?
(iii) बालकाः केन ग्रामं गताः?
ब. पूर्णवाक्येन लिखत —(केवलं प्रश्नद्वयम्) (निर्देशस्पष्टात्मकपदम्-अवबोधनात्मकप्रश्नः) 2×2=4
(i) पथिकः बालकान् किम् अपृच्छत्?
(ii) स्नात्वा च ते बालकाः नदीं तीर्त्वा कुत्र गताः?
(iii) पथिकः कीदृशान् बालकान् दृष्ट्वा अपृच्छत्?
स. अस्य अनुच्छेदस्य कृते उपर्युक्तं शीर्षकं संस्कृतेन लिखत| 1
(द्वित्रिशब्दात्मक-वाक्यम् — चिन्तनात्मकप्रश्नः)
द. यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) (एकपदेन ज्ञानात्मकप्रश्नः) 1×3=3
(i) ‘अगच्छन्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) दश (ख) बालकाः (ग) ग्रामात्
(ii) ‘बालकाः’ इति पदे का विभक्तिः वर्तते?
(क) प्रथमा (ख) द्वितीया (ग) तृतीया
(iii) ‘इदानीम्’ इत्यर्थे किं पर्यायपदं अनुच्छेदे पठितम्?
(क) चिरम् (ख) परस्परम् (ग) अधुना
(iv) ‘अकरोत्’ इति क्रियापदे किं वचनं विद्यते?
(क) एकवचनम् (ख) द्विवचनम् (ग) बहुवचनम्
अ.
(i) नदीस्नानार्थम्
(ii) मौनेन
(iii) हर्षेण
ब.
(i) भोः बालकाः! युष्माकं दुःखस्य कारणं किम्? इति पथिकःअपृच्छत्|
(ii) स्नात्वा च ते बालकाः नदीं तीर्त्वा पारं गताः|
(iii) पथिकः सर्वान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत्|
स.
दशमः त्वम् असि
द.
(i) बालकाः
(ii) प्रथमा
(iii) अधुना
(iv) एकवचनम्
मञ्जूषातः उचितानि पदानि चित्वा चित्राणां नामानि संस्कृतेन लिखत| ½×10=5
दूरभाषः, गजः, सिंहः, उत्पीठिका, बालकः, व्याघ्रः, पुस्तकम्, वृक्षः, कपोतः, बालिका |
1)................................................... | 2)....................................................... | 3)....................................................... |
4)................................................... | 5)................................................... | 6)................................................... |
7)................................................... | 8)................................................... | 9)................................................... |
10)................................................... |
1. गजः
2. सिंहः
3. व्याघ्रः
4. उत्पीठिका
5. बालकः
6. दूरभाषः
7. वृक्षः
8. कपोतः
9. बालिका
10. पुस्तकम्
अधोलिखितान् शब्दान् आधृत्य सार्थकानि दश वाक्यानि रचयत| 1×10=10
बालिकाः | पठति |
कोकिला | पचति |
यानम् | कर्षतः |
छात्रः | कूजति |
मयूराः | सीव्यति |
कुक्कुरौ | चलति |
अम्बा | क्रीडन्ति |
अश्वौ | बुक्कतः |
बलीवर्दौ | नृत्यन्ति |
सौचिकः | धावतः |
1. …………………………………………………………….
2. …………………………………………………………….
3. …………………………………………………………….
4. …………………………………………………………….
5. …………………………………………………………….
6. …………………………………………………………….
7. …………………………………………………………….
8. …………………………………………………………….
9. …………………………………………………………….
10 …………………………………………………………….
1. बालिकाः क्रीडन्ति|
2. कोकिला कूजति|
3. यानं चलति|
4. छात्रः पठति|
5. मयूराः नृत्यन्ति|
6. कुक्कुरौ बुक्कतः|
7. अम्बा पचति|
8. अश्वौ धावतः|
9. बलीवर्दौ कर्षतः|
10. सौचिकः सीव्यति|
उदाहरणानुसारं वर्णसंयोजनं कृत्वा पदानि कोष्ठकेषु लिखत| 1×10=10
यथा- श्+उ+न्+अ+क्+अः | = | शुनकः |
1. स्+य्+ऊ+त्+अः | = | |
2. म्+अ+ण्+ड्+ऊ+क्+अः | = | |
3. प्+अ+र्+य्+अ+ङ्+क्+अः | = | |
4. घ्+अ+ट्+इ+क्+आ | = | |
5. उ+द्+य्+आ+न्+अम् | = | |
6. उ+त्+प्+ई+ठ्+इ+क्+आ | = | |
7. स्+थ्+आ+ल्+इ+क्+आ | = | |
8. ग्+अ+च्+छ्+अ+त्+इ | = | |
9. ब्+उ+क्+क्+अ+त्+इ | = | |
10. प्+इ+प्+ई+ल्+इ+क्+आ | = |
यथा- श्+उ+न्+अ+क्+अः | = | शुनकः |
1. स्+य्+ऊ+त्+अः | = | स्यूतः |
2. म्+अ+ण्+ड्+ऊ+क्+अः | = | मण्डूकः |
3. प्+अ+र्+य्+अ+ङ्+क्+अः | = | पर्यङ्कः |
4. घ्+अ+ट्+इ+क्+आ | = | घटिका |
5. उ+द्+य्+आ+न्+अम् | = | उद्यानम् |
6. उ+त्+प्+ई+ठ्+इ+क्+आ | = | उत्पीठिका |
7. स्+थ्+आ+ल्+इ+क्+आ | = | स्थालिका |
8. ग्+अ+च्+छ्+अ+त्+इ | = | गच्छति |
9. ब्+उ+क्+क्+अ+त्+इ | = | बुक्कति |
10. प्+इ+प्+ई+ल्+इ+क्+आ | = | पिपीलिका |
उदाहरणानुसारं निम्नलिखितानां पदानां वर्णविच्छेदं कुरुत| 1×10=10
यथा- मक्षिका = म्+अ+क्+ष्+इ+क्+आ
1. कुञ्चिका = .................................
2. कपोतः = .................................
3. सीव्यति = .................................
4. मयूराः = .................................
5. वर्णाः = .................................
6. बालकः = .................................
7. कुक्कुरौ = .................................
8. क्रीडनकम् = .................................
9. सङ्गणकम् = .................................
10. गोलाकारा = .................................
1. कुञ्चिका = क्+उ+ञ्+च्+इ+क्+आ
2. कपोतः = क्+अ+प्+ओ+त्+अः
3. सीव्यति = स्+ई+व्+य्+अ+त्+इ
4. मयूराः = म्+अ+य्=ऊ+र्+आः
5. वर्णाः = व्+अ=र्+ण्+अः
6. बालकः = ब्+आ+ल्+अ+क्+अः
7. कुक्कुरौ = क्+उ+क्+क्+उ+र्+औ
8. क्रीडनकम् = क्+र्+ई+ड्+अ+न्+अ+क्+अम्
9. सङ्गणकम् = स्+अ+ङ्+ग्+अ+ण्+अ+क्+अम्
10. गोलाकारा = ग्+ओ+ल्+आ+क्+आ+र्+आ
यथा- एकवचनम् - द्विवचनम् - बहुवचनम्
यथा- चषकः - चषकौ - चषकाः
1. सौचिकः - .............. - ..............
2. ............. - ............... - वानराः
3. .............. - बलीवर्दौ - ..............
4. कृषकः - .............. - ..............
5. छात्रः - .............. - ..............
1. सौचिकः - सौचिकौ - सौचिकाः
2. वानरः - वानरौ - वानराः
3. बलीवर्दः - बलीवर्दौ - बलीवर्दाः
4. कृषकः - कृषकौ - कृषकाः
5. छात्रः - छात्रौ - छात्राः
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत|
उत्सवप्रियः भारतदेशः| अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः| एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति| अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति| देहल्याः मेहरौलीक्षेत्रे आक्टोबर्मासे अस्य आयोजनं भवति| अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते| परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि|
(क) एकपदेन उत्तरत- ½×4=2
(1) कीदृशः अस्माकं भारतदेशः?
(क) धार्मिकः (ख) महान्
(ग) लोकप्रियः (घ) उत्सवप्रियः
(2) उत्सवेषु अन्यतमः कः उत्सवः अस्ति?
(क) पशूत्सवः (ख) यानोत्सवः
(ग) पुष्पोत्सवः (घ) धार्मिकोत्सवः
(3) बहुविधानि कानि दृश्यन्ते?
(क) पुष्पाणि (ख) यानानि
(ग) भवनानि (घ) कार्याणि
(4) देहल्याः कस्मिन् क्षेत्रे अस्य आयोजनं भवति?
(क) देहल्याः (ख) मेहरौलीक्षेत्रे
(ग) आक्टोबर्मासे (घ) कुत्रचित्
(ख) पूर्णवाक्येन उत्तरत- 1×2=2
(1) केन नाम्ना पुष्पोत्सवः प्रसिद्धः?
(2) कदा पुष्पोत्सवस्य आयोजनं भवति?
(क)
(1) उत्सवप्रियः
(2) पुष्पोत्सवः
(3) पुष्पाणि
(4) मेहरौलीक्षेत्रे
(ख)
(1) ‘फूलवालों की सैर’ इति नाम्ना पुष्पोत्सवः प्रसिद्धः अस्ति|
(2) आक्टोबर्मासे पुष्पोत्सवस्य आयोजनं भवति|
निर्देशानुसारं वाक्यानि रचयत| 1×8=8
यथा- सिंहः गर्जति| (बहुवचने) - सिंहाः गर्जन्ति|
(क) बालकः पठति| (बहुवचने) - .....................
(ख) कुक्कुरः बुक्कति| (बहुवचने) - .....................
(ग) त्वं पठसि| (द्विवचने) - .....................
(घ) वयं पठामः| (एकवचने) - .....................
(ङ) अस्माकं पुस्तकानि| (द्विवचने) - .....................
(च) युवां क्रीडथः| (बहुवचने) - .....................
(छ) आवां गच्छावः| (एकवचने) - .....................
(ज) अहं नृत्यामि| (द्विवचने) - .....................
(क) बालकः पठति| (बहुवचने) - बालकाः पठन्ति|
(ख) कुक्कुरः बुक्कति| (बहुवचने) - कुक्कुराः बुक्कन्ति|
(ग) त्वं पठसि| (द्विवचने) - युवां पठथः|
(घ) वयं पठामः| (एकवचने) - अहं पठामि|
(ङ) अस्माकं पुस्तकानि| (द्विवचने) - आवयोः पुस्तकानि|
(च) युवां क्रीडथः| (बहुवचने) - यूयं क्रीडथ|
(छ) आवां गच्छावः| (एकवचने) - अहं गच्छामि|
(ज) अहं नृत्यामि| (द्विवचने) - आवां नृत्यावः|
मञ्जूषातः कर्तृपदानि चित्वा समुचितस्थानेषु पूरयत| ½×8=4
छात्रः, लेखिका, द्विचक्रिका, सिंहाः, कुक्कुरः, कमलम्, क्रीडकः, चटकः |
(क) ..................... गर्जन्ति|
(ख) ..................... लिखति|
(ग) ..................... पठति|
(घ) ..................... चलति|
(ङ) ..................... बुक्कति|
(च) ..................... कूजति|
(छ) ..................... विकसति|
(ज) ..................... क्रीडति|
(क) सिंहाः गर्जन्ति|
(ख) लेखिका लिखति|
(ग) छात्रः पठति|
(घ) द्विचक्रिका चलति|
(ङ) कुक्कुरः बुक्कति|
(च) चटकः कूजति|
(छ) कमलं विकसति|
(ज) क्रीडकः क्रीडति|
मञ्जूषातः कर्तृपदानुसारं क्रियापदानि चित्वा रिक्तस्थानेषु पूरयत| ½×8=4
कर्षन्ति, सीव्यति, गायन्ति, उत्पतन्ति, चरति, दोलतः, पतति, पचति |
(क) मक्षिकाः .....................|
(ख) जवनिके .....................|
(ग) पाचकः .....................|
(घ) सौचिकः .....................|
(ङ) पत्रं .....................|
(च) गायकाः .....................|
(छ) अजा .....................|
(ज) बलीवर्दाः .....................|
(क) मक्षिकाः उत्पतन्ति|
(ख) जवनिके दोलतः|
(ग) पाचकः पचति|
(घ) सौचिकः सीव्यति|
(ङ) पत्रं पतति|
(च) गायकाः गायन्ति|
(छ) अजा चरति|
(ज) बलीवर्दाः कर्षन्ति|
उदाहरणानुसारं सः, सा, तौ, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानेषु पूरयत| ½×10=5
यथा- छात्रा अस्ति| - सा अस्ति|
(क) छात्रः पठति| - ..................
(ख) बालिके खादतः| - ..................
(ग) चटकाः कूजन्ति| - ..................
(घ) सीता वदति| - ..................
(ङ) मोहनः धावति| - ..................
(च) प्रिया गच्छति| - ..................
(छ) बालकाः आगच्छन्ति| - ..................
(ज) महिले रचयतः| - ..................
(झ) अम्बा पचति| - ..................
(ञ) पितामहः पश्यति| - ..................
(क) छात्रः पठति| - सः पठति|
(ख) बालिके खादतः| - ते खादतः|
(ग) चटकाः कूजन्ति| - ते कूजन्ति|
(घ) सीता वदति| - सा वदति|
(ङ) मोहनः धावति| - सः धावति|
(च) प्रिया गच्छति| - सा गच्छति|
(छ) बालकाः आगच्छन्ति| - ते आगच्छन्ति|
(ज) महिले रचयतः| - ते रचयतः|
(झ) अम्बा पचति| - सा पचति|
(ञ) पितामहः पश्यति - सः पश्यति|
अधोलिखितानां पदानां विलोमपदानि लिखत| 1×5=5
(क) उन्नतः - .........................
(ख) दुःखी - .........................
(ग) सुन्दरः - .........................
(घ) हर्षः - .........................
(ङ) उच्चैः - .........................
(क) उन्नतः - अवनतः
(ख) दुःखी - सुखी
(ग) सुन्दरः - असुन्दरः
(घ) हर्षः - शोकः
(ङ) उच्चैः - नीचैः
Take your CBSE board preparation to another level with AI based and rich media animation on Extramarks - The Learning App.
Features of Learning App